४.२६
अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ॥
पदच्छेदः
अमीअदस् (१.३)
पृथुस्तम्बभृतःपृथु–स्तम्ब–भृत् (१.३)
पिशङ्गतांपिशङ्ग–ता (२.१)
गतागत (√गम् + क्त, १.३)
विपाकेनविपाक (३.१)
फलस्यफल (६.१)
शालयःशालि (१.३)
विकासिविकासिन् (२.१)
वप्राम्भसिवप्र–अम्भस् (७.१)
गन्धसूचितंगन्ध–सूचित (√सूचय् + क्त, २.१)
नमन्तिनमन्ति (√नम् लट् प्र.पु. बहु.)
निघ्रातुम्निघ्रातुम् (√नि-घ्रा + तुमुन्)
इवासितोत्पलम्इव (अव्ययः)–असितोत्पल (२.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
मीपृ थु स्तम्बभृ तःपिङ्ग तां
तावि पा केस्य शा यः
वि कासि प्राम्भसिन्ध सूचि तं
न्ति नि घ्रातुमि वासि तोत्प लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.