१.१५.११

शुभलक्षणसंपन्नं दिव्याभरणभूषितम् ।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥

पदच्छेदः

शुभलक्षणसम्पन्नंशुभ–लक्षण–सम्पन्न (√सम्-पद् + क्त, १.१)
दिव्याभरणभूषितम्दिव्य–आभरण–भूषित (√भूषय् + क्त, १.१)
शैलशृङ्गसमुत्सेधंशैल–शृङ्ग–समुत्सेध (१.१)
दृप्तशार्दूलविक्रमम्दृप्त (√दृप् + क्त)–शार्दूल–विक्रम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शुक्ष सं न्नं
दि व्या भूषि तम्
शै शृङ्ग मु त्से धं
दृप्त शा र्दू विक्र मम्