१.३.१२

वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥

M N Dutt

And the slaughter of Khara and Trisiras; and the exertions of Rāvana; the killing of Mārīca, and the carrying away of Vaidehī.

पदच्छेदः

वधंवध (२.१)
खरत्रिशिरसोर्खर–त्रिशिरस् (६.२)
उत्थानंउत्थान (२.१)
रावणस्यरावण (६.१)
(अव्ययः)
मारीचस्यमारीच (६.१)
वधंवध (२.१)
चैव (अव्ययः)–एव (अव्ययः)
वैदेह्यावैदेही (६.१)
हरणंहरण (२.१)
तथातथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

धंत्रिशि सो
रु त्था नं रास्य
मा रीस्य धं चै
वै दे ह्या णं था