१.५९.३०

एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ।
गगने तान्यनेकानि वैश्वानरपथाद्बहिः ॥

पदच्छेदः

एवंएवम् (अव्ययः)
भवतुभवतु (√भू लोट् प्र.पु. एक.)
भद्रंभद्र (१.१)
तेत्वद् (४.१)
तिष्ठन्त्व्तिष्ठन्तु (√स्था लोट् प्र.पु. बहु.)
एतानिएतद् (१.३)
सर्वशःसर्वशस् (अव्ययः)
गगनेगगन (७.१)
तान्य्तद् (१.३)
अनेकानिअनेक (१.३)
वैश्वानरपथाद्वैश्वानर–पथ (५.१)
बहिःबहिस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वंतु द्रं ते
ति ष्ठ न्त्वे तानिर्व शः
ने तान्य ने कानि
वै श्वा थाद्ब हिः