२.१.२

अयं केकयराजस्य पुत्रो वसति पुत्रक ।
त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ॥

पदच्छेदः

अयंइदम् (१.१)
केकयराजस्यकेकय–राज (६.१)
पुत्रोपुत्र (१.१)
वसतिवसति (√वस् लट् प्र.पु. एक.)
पुत्रकपुत्रक (८.१)
त्वांत्वद् (२.१)
नेतुम्नेतुम् (√नी + तुमुन्)
आगतोआगत (√आ-गम् + क्त, १.१)
वीरवीर (८.१)
युधाजिन्युधाजित् (१.१)
मातुलस्मातुल (१.१)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं के रास्य
पु त्रोति पुत्र
त्वां नेतु मा तो वी
यु धा जि न्मातुस्त