२.१.४

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।
मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ॥

पदच्छेदः

आपृच्छ्यआपृच्छ्य (√आ-प्रच्छ् + ल्यप्)
पितरंपितृ (२.१)
शूरोशूर (१.१)
रामंराम (२.१)
चाक्लिष्टकारिणम् (अव्ययः)–अक्लिष्ट–कारिन् (२.१)
मातॄंश्मातृ (२.३)
चापि (अव्ययः)–अपि (अव्ययः)
नरश्रेष्ठःनर–श्रेष्ठ (१.१)
शत्रुघ्नसहितोशत्रुघ्न–सहित (१.१)
ययौययौ (√या लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृच्छ्यपि रं शू रो
रा मं चा क्लिष्ट कारि णम्
मा तॄं श्चापि श्रे ष्ठः
त्रुघ्नहि तो यौ