२.४२.२

स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥

अन्वयः

सर्वे all of them, स्वं स्वम् their respective, निलयम् homes, आगम्य having reached, पुत्रदारैः with their sons and wives, समावृताः surrounded, बाष्पेण with tears, पिहिताननाः with their faces covered, अश्रूणि tears, मुमुचुः shed.

Summary

The subjects reached their respective homes and surrounded by their sons and wives broke down their faces flooded with tears.

पदच्छेदः

स्वंस्व (२.१)
स्वंस्व (२.१)
निलयम्निलय (२.१)
आगम्यआगम्य (√आ-गम् + ल्यप्)
पुत्रदारैःपुत्र–दार (३.३)
समावृताःसमावृत (√समा-वृ + क्त, १.३)
अश्रूणिअश्रु (२.३)
मुमुचुःमुमुचुः (√मुच् लिट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
बाष्पेणबाष्प (३.१)
पिहिताननाःपिहित (√पि-धा + क्त)–आनन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्वं स्वंनि माम्य
पुत्र दा रैः मावृ ताः
श्रूणिमुमु चुः र्वे
बा ष्पेपिहि ता नाः