२.८६.२४

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः ॥

पदच्छेदः

यस्याःयद् (६.१)
कृतेकृते (अव्ययः)
नरव्याघ्रौनर–व्याघ्र (१.२)
जीवनाशम्जीव–नाश (२.१)
इतोइतस् (अव्ययः)
गतौगत (√गम् + क्त, १.२)
राजाराजन् (१.१)
पुत्रविहीनश्पुत्र–विहीन (√वि-हा + क्त, १.१)
(अव्ययः)
स्वर्गंस्वर्ग (२.१)
दशरथोदशरथ (१.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याःकृ ते व्या घ्रौ
जी नामि तो तौ
रा जा पुत्रवि हीश्च
स्व र्गं थो तः