२.९९.१

पुनरेवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः ।
प्रत्युवच ततः श्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः ॥

अन्वयः

ततः then, श्रीमान् prosperous, अभिसत्कृतः wellhonoured, लक्ष्मणाग्रजः Lakshmana's elder brother, ज्ञातिमध्ये amidst his relatives, पुनः again, एवम् thus, ब्रुवाणम् speaking, भरतम् to Bharata, प्रत्युवाच replied.

Summary

Wellhonoured in the midst of relatives, the celebrated Rama, elder brother of Lakshmana, then said to Bharata who was going to speak again.

पदच्छेदः

पुनर्पुनर् (अव्ययः)
एवंएवम् (अव्ययः)
ब्रुवाणंब्रुवाण (√ब्रू + शानच्, २.१)
तुतु (अव्ययः)
भरतंभरत (२.१)
लक्ष्मणाग्रजःलक्ष्मण–अग्रज (१.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
श्रीमाञ्श्रीमत् (१.१)
ज्ञातिमध्येज्ञाति–मध्य (७.१)
ऽतिसत्कृतःअति (अव्ययः)–सत्कृत (√सत्-कृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु रे वंब्रु वा णंतु
तंक्ष्म णाग्र जः
प्रत्यु तः श्री मा
ञ्ज्ञाति ध्येऽतित्कृ तः