३.१.५

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ।
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ॥

पदच्छेदः

आरण्यैश्आरण्य (३.३)
(अव्ययः)
महावृक्षैःमहत्–वृक्ष (३.३)
पुण्यैःपुण्य (३.३)
स्वादुफलैर्स्वादु–फल (३.३)
वृतम्वृत (√वृ + क्त, २.१)
बलिहोमार्चितंबलि–होम–अर्चित (√अर्चय् + क्त, २.१)
पुण्यंपुण्य (२.१)
ब्रह्मघोषनिनादितम्ब्रह्मघोष–निनादित (√नि-नादय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ण्यैश्च हा वृ क्षैः
पु ण्यैः स्वादु लैर्वृ तम्
लि हो मार्चि तं पु ण्यं
ब्रह्म घोनि नादि तम्