३.५०.३९

उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः ।
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ॥

M N Dutt

And the sylvan deities, looking up now and again with eyes betokening fear, had their persons all in a tremble.

पदच्छेदः

उद्वीक्ष्योद्वीक्ष्यउद्वीक्ष्य (√उद्वि-ईक्ष् + ल्यप्)–उद्वीक्ष्य (√उद्वि-ईक्ष् + ल्यप्)
नयनैर्नयन (३.३)
आस्रपाताविलेक्षणाःआस्र–पात–आविल–ईक्षण (१.३)
सुप्रवेपितगात्राश्सुप्रवेपित–गात्र (१.३)
(अव्ययः)
बभूवुर्बभूवुः (√भू लिट् प्र.पु. बहु.)
वनदेवताःवन–देवता (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वी क्ष्यो द्वीक्ष्य नै
रास्र पा तावि लेक्ष णाः
सुप्र वेपि गा त्राश्च
भू वुर्व दे ताः