३.५९.२३

उवाच दीनया वाचा दुःखाभिहतचेतनः ।
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥

पदच्छेदः

उवाचउवाच (√वच् लिट् प्र.पु. एक.)
दीनयादीन (३.१)
वाचावाच् (३.१)
दुःखाभिहतचेतनःदुःख–अभिहत (√अभि-हन् + क्त)–चेतना (१.१)
वनंवन (१.१)
सर्वंसर्व (१.१)
सुविचितंसुविचित (१.१)
पद्मिन्यःपद्मिनी (१.३)
फुल्लपङ्कजाःफुल्ल–पङ्कज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा दी या वा चा
दुः खाभि चे नः
नं र्वंसुविचि तं
द्मि न्यः फुल्लङ्क जाः