४.६६.३५

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।
लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ॥

पदच्छेदः

वृतंवृत (√वृ + क्त, २.१)
नानाविधैर्नानाविध (३.३)
वृक्षैर्वृक्ष (३.३)
मृगसेवितशाद्वलम्मृग–सेवित (√सेव् + क्त)–शाद्वल (२.१)
लताकुसुमसंबाधंलता–कुसुम–सम्बाध (२.१)
नित्यपुष्पफलद्रुमम्नित्य–पुष्प–फल–द्रुम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वृ तं ना नावि धै र्वृ क्षै
र्मृ सेवि शाद्व लम्
ताकुसु सं बा धं
नित्य पुष्पद्रु मम्