५.१.१६४

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ॥

अन्वयः

कपिना by the vanara, आकृष्यमाणानि drawing, पाण्डुरारुणवर्णानि white and red colour, नीलमाञ्जिष्ठकानि च blue and yellow clouds, महाभ्राणि big clouds, चकाशिरे shining.

Summary

While Hanuman was drawing big clouds which were either white or red or blue or yellow, he looked charming.

पदच्छेदः

बहुशःबहुशस् (अव्ययः)
सेवितेसेवित (√सेव् + क्त, ७.१)
वीरैर्वीर (३.३)
विद्याधरगणैर्विद्याधर–गण (३.३)
वरैःवर (३.३)
कपिनाकपि (३.१)
कृष्यमाणानिकृष्यमाण (√कृष् + शानच्, १.३)
महाभ्राणिमहत्–अभ्र (१.३)
चकाशिरेचकाशिरे (√काश् लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हु शः सेवि ते वी रै
र्वि द्या णैर्व रैः
पि ना कृष्य मा णानि
हा भ्राणि काशि रे