५.१२.७

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।
कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥

पदच्छेदः

वृतांवृत (√वृ + क्त, २.१)
नानाविधैर्नानाविध (३.३)
वृक्षैःवृक्ष (३.३)
पुष्पोपगफलोपगैःपुष्प–उपग–फल–उपग (३.३)
कोकिलैर्कोकिल (३.३)
भृङ्गराजैश्चभृङ्गराज (३.३)–च (अव्ययः)
मत्तैर्मत्त (√मद् + क्त, ३.३)
नित्यनिषेविताम्नित्य–निषेवित (√नि-सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वृ तां ना नावि धै र्वृ क्षैः
पु ष्पो लो गैः
कोकि लै र्भृङ्ग रा जैश्च
त्तै र्नित्यनि षेवि ताम्