५.२.२१

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः ।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि ॥

पदच्छेदः

दंष्ट्रिभिर्दंष्ट्रिन् (३.३)
बहुभिःबहु (३.३)
शूरैःशूर (३.३)
शूलपट्टिशपाणिभिःशूल–पट्टिश–पाणि (३.३)
रक्षितांरक्षित (√रक्ष् + क्त, २.१)
राक्षसैर्राक्षस (३.३)
घोरैर्घोर (३.३)
गुहाम्गुहा (२.१)
आशीविषैर्आशीविष (३.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दंष्ट्रि भिर्बहु भिः शू रैः
शूट्टि पाणि भिः
क्षि तां राक्ष सै र्घो रै
र्गु हा मा शीवि षैपि