६.१६.६

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ।
निवेशश्च यथा तेषां वानराणां महात्मनाम् ॥

पदच्छेदः

तद् (१.१)
(अव्ययः)
सेतुर्सेतु (१.१)
यथायथा (अव्ययः)
बद्धःबद्ध (√बन्ध् + क्त, १.१)
सागरेसागर (७.१)
सलिलार्णवेसलिल–अर्णव (७.१)
निवेशश्चनिवेश (१.१)–च (अव्ययः)
यथायथा (अव्ययः)
तेषांतद् (६.३)
वानराणांवानर (६.३)
महात्मनाम्महात्मन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

से तुर्य था द्धः
सा रेलि लार्ण वे
नि वेश्च था ते षां
वा रा णां हात्म नाम्