६.१७.३२

भेरीणामिव संनादो यस्यैष श्रूयते महान् ।
घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् ॥

पदच्छेदः

भेरीणाम्भेरी (६.३)
इवइव (अव्ययः)
संनादोसंनाद (१.१)
यस्यैषयद् (६.१)–एतद् (१.१)
श्रूयतेश्रूयते (√श्रु प्र.पु. एक.)
महान्महत् (१.१)
घोरःघोर (१.१)
शाखामृगेन्द्राणांशाखामृग–इन्द्र (६.३)
संग्रामम्संग्राम (२.१)
अभिकाङ्क्षताम्अभिकाङ्क्षत् (√अभि-काङ्क्ष् + शतृ, ६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भे री णामि सं ना दो
स्यै श्रू ते हान्
घो रः शा खामृ गे न्द्रा णां
सं ग्राभि काङ्क्ष ताम्