६.२४.२४

प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् ।
वनं निर्दहतो धर्मे यथारूपं विभावसोः ॥

पदच्छेदः

प्रभांप्रभा (२.१)
विसृजतांविसृजत् (√वि-सृज् + शतृ, ६.३)
पश्यपश्य (√पश् लोट् म.पु. )
नानावर्णांनाना (अव्ययः)–वर्ण (२.१)
समुत्थिताम्समुत्थित (√समुत्-स्था + क्त, २.१)
वनंवन (२.१)
निर्दहतोनिर्दहत् (√निः-दह् + शतृ, ६.१)
घर्मेघर्म (७.१)
यथारूपंयथा (अव्ययः)–रूप (२.१)
विभावसोःविभावसु (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र भांविसृ तांश्य
ना ना र्णां मुत्थि ताम्
नं निर्द तो र्मे
था रू पंवि भा सोः