६.४५.२५

हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ।
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥

पदच्छेदः

हयैर्हय (३.३)
महाजवैर्महत्–जव (३.३)
युक्तंयुक्त (√युज् + क्त, २.१)
सम्यक्सम्यक् (अव्ययः)
सूतसुसंयुतम्सूत–सुसंयुत (२.१)
महाजलदनिर्घोषंमहत्–जलद–निर्घोष (२.१)
साक्षाच्चन्द्रार्कभास्वरम्साक्षात् (अव्ययः)–चन्द्र–अर्क–भास्वर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यैर्म हा वै र्यु क्तं
म्य क्सूसु संयु तम्
हा नि र्घो षं
सा क्षा च्च न्द्रार्क भास्व रम्