६.६२.१०

शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ॥

पदच्छेदः

शयनेषुशयन (७.३)
महार्हेषुमहार्ह (७.३)
प्रसुप्तानांप्रसुप्त (√प्र-स्वप् + क्त, ६.३)
प्रियैःप्रिय (३.३)
सहसह (अव्ययः)
त्रस्तानांत्रस्त (√त्रस् + क्त, ६.३)
गच्छतांगच्छत् (√गम् + शतृ, ६.३)
तूर्णंतूर्णम् (अव्ययः)
पुत्रान्पुत्र (२.३)
आदायआदाय (√आ-दा + ल्यप्)
सर्वतःसर्वतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नेषु हा र्हेषु
प्र सु प्ता नांप्रि यैः
त्र स्ता नांच्छ तां तू र्णं
पु त्रा ना दार्व तः