७.१००.७

भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् ।
वैष्णवीं तां महातेजस्तदाकाशं सनातनम् ॥

पदच्छेदः

भ्रातृभिःभ्रातृ (३.३)
सहसह (अव्ययः)
देवाभैःदेव–आभ (३.३)
प्रविशस्वप्रविशस्व (√प्र-विश् लोट् म.पु. )
स्वकांस्वक (२.१)
तनुम्तनु (२.१)
वैष्णवींवैष्णव (२.१)
तांतद् (२.१)
महातेजस्महत्–तेजस् (८.१)
तद्तद् (२.१)
आकाशंआकाश (२.१)
सनातनम्सनातन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्रातृ भिः दे वा भैः
प्रवि स्वस्व कां नुम्
वैष्ण वीं तां हा ते
स्त दा का शं ना नम्