७.१२.५

मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥

पदच्छेदः

मयस्त्वथाब्रवीद्मय (१.१)–तु (अव्ययः)–अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
रामराम (८.१)
पृच्छन्तंपृच्छत् (√प्रच्छ् + शतृ, २.१)
तंतद् (२.१)
निशाचरम्निशाचर (२.१)
श्रूयतांश्रूयताम् (√श्रु प्र.पु. एक.)
सर्वम्सर्व (२.१)
आख्यास्येआख्यास्ये (√आ-ख्या लृट् उ.पु. )
यथावृत्तम्यथावृत्त (२.१)
इदंइदम् (२.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त्व थाब्र वी द्रा
पृ च्छ न्तं तंनि शा रम्
श्रू तांर्व मा ख्या स्ये
था वृत्तमि दं