७.२१.२०

ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।
विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ ॥

पदच्छेदः

ततःततस् (अव्ययः)
शोणितदिग्धाङ्गःशोणित–दिग्ध (√दिह् + क्त)–अङ्ग (१.१)
प्रहारैर्प्रहार (३.३)
जर्जरीकृतःजर्जरीकृत (√जर्जरी-कृ + क्त, १.१)
विमानेविमान (७.१)
राक्षसश्रेष्ठःराक्षस–श्रेष्ठ (१.१)
फुल्लाशोकफुल्ल–अशोक (१.१)
इवाबभौइव (अव्ययः)–आबभौ (√आ-भा लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः शोणि दि ग्धा ङ्गः
प्र हा रै र्जर्ज रीकृ तः
वि मा ने राक्ष श्रे ष्ठः
फु ल्ला शो वा भौ