७.२२.२१

मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् ।
मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् ॥

पदच्छेदः

मृत्युस्तुमृत्यु (१.१)–तु (अव्ययः)
परमक्रुद्धोपरम–क्रुद्ध (√क्रुध् + क्त, १.१)
वैवस्वतम्वैवस्वत (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
मुञ्चमुञ्च (√मुच् लोट् म.पु. )
मांमद् (२.१)
देवदेव (८.१)
शीघ्रंशीघ्रम् (अव्ययः)
त्वंत्वद् (१.१)
निहन्मिनिहन्मि (√नि-हन् लट् उ.पु. )
समरेसमर (७.१)
रिपुम्रिपु (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मृ त्युस्तु क्रु द्धो
वैस्व थाब्र वीत्
मुञ्च मां दे शी घ्रं त्वं
निन्मि रेरि पुम्