७.२४.२८

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।
भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः ॥

पदच्छेदः

अस्मिन्इदम् (७.१)
कालेकाल (७.१)
तुतु (अव्ययः)
यत्यद् (१.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
तत्तद् (२.१)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
तेत्वद् (४.१)
हितम्हित (१.१)
भ्रातुर्भ्रातृ (६.१)
ऐश्वर्यसंस्थस्यऐश्वर्य–संस्थ (६.१)
खरस्यखर (६.१)
भवभव (√भू लोट् म.पु. )
पार्श्वतःपार्श्वतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्का लेतु त्प्रा प्तं
त्क रि ष्यामि तेहि तम्
भ्रातु रै श्वर्य सं स्थस्य
स्य पार्श्व तः