७.२६.२५

धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥

पदच्छेदः

धर्मतोधर्म (५.१)
योयद् (१.१)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
विप्रःविप्र (१.१)
क्षत्रियोक्षत्रिय (१.१)
वीर्यतोवीर्य (५.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
क्रोधाद्क्रोध (५.१)
यश्चयद् (१.१)–च (अव्ययः)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
अग्निःअग्नि (१.१)
क्षान्त्याक्षान्ति (३.१)
(अव्ययः)
वसुधासमःवसुधा–सम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्म तो यो वे द्वि प्रः
क्षत्रि यो वीर्य तो वेत्
क्रो धा द्यश्च वे ग्निः
क्षा न्त्यासु धा मः