७.२७.२५

एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः ।
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ॥

पदच्छेदः

एतैःएतद् (३.३)
सर्वैर्सर्व (३.३)
महावीर्यैर्महत्–वीर्य (३.३)
वृतोवृत (√वृ + क्त, १.१)
राक्षसपुंगवःराक्षस–पुंगव (१.१)
रावणस्यार्यकःरावण (६.१)–आर्यक (१.१)
सैन्यंसैन्य (२.१)
सुमालीसुमालिन् (१.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैः र्वैर्म हा वी र्यै
र्वृ तो राक्ष पुं वः
रा स्यार्य कः सै न्यं
सु मा लीप्रवि वे