७.२९.९

विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् ॥

M N Dutt

Be not sorry; do you soon drive my chariot. To-day I have told you twice to take me to the end of the enemy's army.

पदच्छेदः

विषादोविषाद (१.१)
(अव्ययः)
(अव्ययः)
कर्तव्यःकर्तव्य (√कृ + कृत्, १.१)
शीघ्रंशीघ्रम् (अव्ययः)
वाहयवाहय (√वाहय् लोट् म.पु. )
मेमद् (६.१)
रथम्रथ (२.१)
द्विःद्विस् (अव्ययः)
खलुखलु (अव्ययः)
त्वांत्वद् (२.१)
ब्रवीम्यद्यब्रवीमि (√ब्रू लट् उ.पु. )–अद्य (अव्ययः)
यावदन्तंयावत् (अव्ययः)–अन्त (२.१)
नयस्वनयस्व (√नी लोट् म.पु. )
माम्मद् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि षा दो र्त व्यः
शी घ्रं वा मे थम्
द्विः लु त्वांब्र वी म्यद्य
या न्तंस्व माम्