७.३.२५

रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा ।
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥

पदच्छेदः

रमणीयारमणीय (१.१)
पुरीपुरी (१.१)
सातद् (१.१)
हिहि (अव्ययः)
रुक्मवैदूर्यतोरणारुक्म–वैडूर्य–तोरण (१.१)
राक्षसैःराक्षस (३.३)
सातद् (१.१)
परित्यक्तापरित्यक्त (√परि-त्यज् + क्त, १.१)
पुरापुरा (अव्ययः)
विष्णुभयार्दितैःविष्णु–भय–अर्दित (√अर्दय् + क्त, ३.३)
शून्याशून्य (१.१)
रक्षोगणैःरक्षस्–गण (३.३)
सर्वैसर्व (३.३)
रसातलतलंरसातल–तल (२.१)
गतैःगत (√गम् + क्त, ३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
णी यापु री साहि रुक्म वै दू
र्य तो णा राक्ष सैः सा रि त्य क्ता
पु रा विष्णु यार्दि तैः शू न्या क्षो
णैः र्वै सा लं तैः