७.३२.५१

बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥

पदच्छेदः

बलोद्धतौबल–उद्धत (√उत्-हन् + क्त, १.२)
यथायथा (अव्ययः)
नागौनाग (१.२)
वाशितार्थेवाशिता–अर्थ (७.१)
यथायथा (अव्ययः)
वृषौवृष (१.२)
मेघाविवमेघ (१.२)–इव (अव्ययः)
विनर्दन्तौविनर्दत् (√वि-नर्द् + शतृ, १.२)
सिंहाविवसिंह (१.२)–इव (अव्ययः)
बलोत्कटौबल–उत्कट (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लोद्ध तौ था ना गौ
वाशि ता र्थे थावृ षौ
मे घाविवि र्द न्तौ
सिं हावि लोत्क टौ