७.३२.६३

स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् ।
बबन्ध बलवान्राजा बलिं नारायणो यथा ॥

पदच्छेदः

तद् (१.१)
तंतद् (२.१)
बाहुसहस्रेणबाहु–सहस्र (३.१)
बलाद्बल (५.१)
गृह्यगृह्य (√ग्रह् + क्त्वा)
दशाननम्दशानन (२.१)
बबन्धबबन्ध (√बन्ध् लिट् प्र.पु. एक.)
बलवान्बलवत् (१.१)
राजाराजन् (१.१)
बलिंबलि (२.१)
नारायणोनारायण (१.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं बाहु स्रे
ला द्गृह्य शा नम्
न्ध वा न्रा जा
लिं ना रा णो था