७.३५.५५

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।
तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो ॥

पदच्छेदः

रुरोधरुरोध (√रुध् लिट् प्र.पु. एक.)
दुःखंदुःख (२.१)
जनयन्न्जनयत् (√जनय् + शतृ, १.१)
अन्तःपुरअन्तःपुर (७.१)
इवइव (अव्ययः)
स्त्रियःस्त्री (२.३)
तस्मात्तस्मात् (अव्ययः)
त्वांत्वद् (२.१)
शरणंशरण (२.१)
प्राप्ताप्राप्त (√प्र-आप् + क्त, १.३)
वायुनोपहतावायु (३.१)–उपहत (√उप-हन् + क्त, १.३)
विभोविभु (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु रो दुः खं
न्न न्तःपुस्त्रि यः
स्मा त्त्वां णं प्रा प्ता
वायु नो तावि भो