७.३७.७

युष्माकं च प्रभावेन तेजसा च महात्मनाम् ।
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः ॥

पदच्छेदः

युष्माकंत्वद् (६.३)
(अव्ययः)
प्रभावेनप्रभाव (३.१)
तेजसातेजस् (३.१)
(अव्ययः)
महात्मनाम्महात्मन् (६.३)
हतोहत (√हन् + क्त, १.१)
दुरात्मादुरात्मन् (१.१)
दुर्बुद्धीदुर्बुद्धि (१.१)
रावणोरावण (१.१)
राक्षसाधिपःराक्षस–अधिप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यु ष्मा कंप्र भा वे
ते सा हात्म नाम्
तोदु रा त्मा दु र्बु द्धी
रा णो राक्ष साधि पः