७.३८.९

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः ।
आदाय तानि रत्नानि अयोध्यामगमन्पुनः ॥

पदच्छेदः

भरतोभरत (१.१)
लक्ष्मणश्चैवलक्ष्मण (१.१)–च (अव्ययः)–एव (अव्ययः)
शत्रुघ्नश्चशत्रुघ्न (१.१)–च (अव्ययः)
महारथःमहत्–रथ (१.१)
आदायआदाय (√आ-दा + ल्यप्)
तानितद् (२.३)
रत्नानिरत्न (२.३)
अयोध्याम्अयोध्या (२.१)
अगमन्अगमन् (√गम् प्र.पु. बहु.)
पुनःपुनर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोक्ष्म श्चै
त्रु घ्नश्च हा थः
दा तानि त्नानि
यो ध्यान्पु नः