७.५२.६

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम् ।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥

पदच्छेदः

तेतद् (१.३)
द्विजाःद्विज (१.३)
पूर्णकलशैःपूर्ण (√पृ + क्त)–कलश (३.३)
सर्वतीर्थाम्बुसत्कृतम्सर्व–तीर्थ–अम्बु–सत्कृत (√सत्-कृ + क्त, २.१)
गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
फलमूलंफल–मूल (२.१)
(अव्ययः)
रामस्याभ्याहरन्राम (६.१)–अभ्याहरन् (√अभ्या-हृ लङ् प्र.पु. बहु.)
बहुबहु (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेद्वि जाः पूर्ण शैः
र्व ती र्थाम्बुत्कृ तम्
गृ ही त्वा मू लं
रा स्या भ्यान्बहु