७.६८.१

पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम् ।
समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥

M N Dutt

O Răma, in Tretāage, there was a huge forest extending over hundred Yojanas divested of animals and men.

पदच्छेदः

पुरापुरा (अव्ययः)
त्रेतायुगेत्रेता–युग (७.१)
ह्यासीद्हि (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
अरण्यंअरण्य (१.१)
बहुविस्तरम्बहु–विस्तर (१.१)
समन्ताद्समन्तात् (अव्ययः)
योजनशतंयोजन–शत (२.१)
निर्मृगंनिर्मृग (१.१)
पक्षिवर्जितम्पक्षिन्–वर्जित (√वर्जय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु रा त्रे तायु गे ह्या सी
ण्यंहु विस्त रम्
न्ता द्यो तं
निर्मृ गंक्षिर्जि तम्