७.७.१८

तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नरायणेरिताः ।
निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः ॥

पदच्छेदः

तथातथा (अव्ययः)
बाणाबाण (१.३)
विनिर्मुक्ताःविनिर्मुक्त (√विनिः-मुच् + क्त, १.३)
शार्ङ्गान्नारायणेरिताःशार्ङ्ग (५.१)–नारायण–ईरित (√ईरय् + क्त, १.३)
निर्धावन्तीषवस्तूर्णंनिर्धावन्ति (√निः-धाव् लट् प्र.पु. बहु.)–इषु (१.३)–तूर्णम् (अव्ययः)
शतशोशतशस् (अव्ययः)
ऽथअथ (अव्ययः)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था बा णावि नि र्मु क्ताः
शा र्ङ्गान्न रा णेरि ताः
नि र्धा न्ती स्तू र्णं
शोऽथस्र शः