७.७३.१८

ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् ।
कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ॥

पदच्छेदः

ततोततस् (अव्ययः)
विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
रुचिरंरुचिर (२.१)
पुष्पकंपुष्पक (२.१)
कामगामिनम्काम–गामिन् (२.१)
कक्ष्यान्तरविनिक्षिप्तंकक्ष्या–अन्तर–विनिक्षिप्त (√विनि-क्षिप् + क्त, २.१)
द्वाःस्थंद्वाःस्थ (२.१)
रामोराम (१.१)
ऽब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोवि सृज्यरुचि रं
पुष्प कं का गामि नम्
क्ष्यान्तवि नि क्षि प्तं
द्वाः स्थं रा मोऽब्र वीद्व चः