७.८५.१९

पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।
वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम् ।
येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ॥

M N Dutt

Ráma having thus asked them those two Muni boys said: The illustrious Vālmīki is the author of this poem. He has described in this poem your endless story. He has of late come to your sacrifice.

पदच्छेदः

पृच्छन्तंपृच्छत् (√प्रच्छ् + शतृ, २.१)
राघवंराघव (२.१)
वाक्यम्वाक्य (२.१)
ऊचतुर्ऊचतुः (√वच् लिट् प्र.पु. द्वि.)
मुनिदारकौमुनि–दारक (१.२)
वाल्मीकिर्वाल्मीकि (१.१)
भगवान्भगवत् (१.१)
कर्ताकर्तृ (१.१)
सम्प्राप्तोसम्प्राप्त (√सम्प्र-आप् + क्त, १.१)
यज्ञसंनिधिम्यज्ञ–संनिधि (२.१)
येनेदंयद् (३.१)–इदम् (१.१)
चरितंचरित (१.१)
तुभ्यम्त्वद् (४.१)
अशेषंअशेष (१.१)
संप्रदर्शितम्संप्रदर्शित (√संप्र-दर्शय् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
पृ च्छ न्तं रा वं वाक्य मू तुर्मु
नि दा कौ वा ल्मी किर्भ वा न्क र्ता
सं प्रा प्तोज्ञ संनि धिम् ये ने दं
रि तं तुभ्य शे षं संप्रर्शि तम्