७.९८.२२

यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण ।
राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि ॥

पदच्छेदः

यावत्यावत् (अव्ययः)
प्रजाप्रजा (१.३)
धरिष्यन्तिधरिष्यन्ति (√धृ लृट् प्र.पु. बहु.)
तावत्तावत् (अव्ययः)
त्वंत्वद् (१.१)
वैवै (अव्ययः)
विभीषणविभीषण (८.१)
राक्षसेन्द्रराक्षस–इन्द्र (८.१)
महावीर्यमहत्–वीर्य (८.१)
लङ्कास्थःलङ्का–स्थ (१.१)
स्वंस्व (२.१)
धरिष्यसिधरिष्यसि (√धृ लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यात्प्र जा रि ष्यन्ति
ता त्त्वं वैवि भी
राक्ष सेन्द्र हा वीर्य
ङ्का स्थः स्वं रिष्यसि