७.९९.७

शरा नानाविधाश्चापि धनुरायतविग्रहम् ।
अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः ॥

पदच्छेदः

शराशर (१.३)
नानाविधाश्चापिनानाविध (१.३)–च (अव्ययः)–अपि (अव्ययः)
धनुर्धनुस् (१.१)
आयतविग्रहम्आयत (√आ-यम् + क्त)–विग्रह (१.१)
अनुव्रजन्तिअनुव्रजन्ति (√अनु-व्रज् लट् प्र.पु. बहु.)
काकुत्स्थंकाकुत्स्थ (२.१)
सर्वेसर्व (१.३)
पुरुषविग्रहाःपुरुष–विग्रह (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ना नावि धा श्चापि
नु रा विग्र हम्
नुव्रन्ति का कु त्स्थं
र्वेपुरु विग्र हाः