३.३५
भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला आयुर्वायु-विघट्टिताब्ज-पटली-लीनाम्बुवद्भङ्गुरम् ।
लीला यौवन-लालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विदध्वं बुधाः ॥
पदच्छेदः
भोगाभोग (१.३)
मेघवितानमध्यविलसत्सौदामिनीचञ्चलामेघ–वितान–मध्य–विलसत् (√वि-लस् + शतृ)–सौदामिनी–चञ्चल (१.३)
आयुर्आयुस् (१.१)
वायुविघट्टिताब्जपटलीलीनाम्बुवद्वायु–विघट्टित (√वि-घट्टय् + क्त)–अब्ज–पटल–लीन (√ली + क्त)–अम्बु–वत् (अव्ययः)
भङ्गुरम्भङ्गुर (१.१)
लीलालीला (१.३)
यौवनलालसास्यौवन–लालस (१.३)
तनुभृताम्तनुभृत् (६.३)
इत्य्इति (अव्ययः)
आकलय्यआकलय्य (√आ-कलय् + ल्यप्)
द्रुतंद्रुतम् (अव्ययः)
योगेयोग (७.१)
धैर्यसमाधिसिद्धिसुलभेधैर्य–समाधि–सिद्धि–सुलभ (७.१)
बुद्धिंबुद्धि (२.१)
बुधाःबुध (८.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
भो गा मेवि ताध्यवि त्सौ दामि नीञ्च ला
यु र्वायुविट्टि ताब्ज ली ली नाम्बु द्भङ्गु रम्
ली ला यौ ला सास्तनुभृ ता मि त्या य्यद्रु तं
यो गे धैर्य माधि सिद्धिसु भे बु द्धिंवि ध्वंबु धाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.