कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥
वल्लभदेवः कश्चिद्यक्षः पुण्यजनो रामगिर्याश्रमेषु चित्रकुटाचलतपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमलकामपहाय तत्र वासे कारणमाह । भर्तुः प्रभोर्धनदस्य शापेनास्तंगमितमहिमा नष्टतेजाः । कीदृशेन । कान्ताविरहगुरुणा प्रियाविरहदुःखेन । तथा वर्षभोग्यण' संवत्सरमनुभाव्येन । किमिति तेनास्य शापोऽदायीत्याह । स्वाधिकारप्रमत्तो निजव्यापारावलिप्तः । स हि जायायां व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तथैव तव वर्षं विरहोऽस्तु । महिमा ते नश्यत्विति शप्तः । रामाद्रिमतः स आययौ । कीदृशेष्वाश्रमेषु । जनकतनयास्नामपुण्योदकेषु सीतामज्जनपवित्रतोयेषु । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । राघवसंनिधानेऽपि सीतायाः प्रशंमा शृङ्गाराश्रयत्वेन काव्यस्य चिकीर्षितत्वात् । तथा स्निग्धा अपरुषा छायाप्रधानास्तरवो येष्विति सेव्यत्वकथनम् । वर्षं भोग्यो वर्षभोग्यः । काला अत्यन्तमयोगे चेति ममासः । रामगिरिरत्र चित्रकूटः । न तु ऋष्यमूकः । तत्र सीताया वासाभावात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । प्रवासविप्रलम्भो रसः ॥
पदच्छेदः
कश्चित्कश्चित् (१.१)
कान्ताविरहगुरुणाकान्ता–विरह–गुरु (३.१)
स्वाधिकारात्स्व–अधिकार (५.१)
प्रमत्तःप्रमत्त (√प्र-मद् + क्त, १.१)
शापेनास्तंगमितमहिमाशाप (३.१)–अस्तंगमित (√अस्तम्-गमय् + क्त)–महिमन् (१.१)
वर्षभोग्येणवर्ष–भोग्य (√भुज् + कृत्, ३.१)
भर्तुःभर्तृ (६.१)
यक्षश्चक्रेयक्ष (१.१)–चक्रे (√कृ लिट् प्र.पु. एक.)
जनकतनयास्नानपुण्योदकेषुजनकतनया–स्नान–पुण्य–उदक (७.३)
स्निग्धछायातरुषुस्निग्ध–छाया–तरु (७.३)
वसतिंवसति (२.१)
रामगिर्याश्रमेषुरामगिरि–आश्रम (७.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
श्चि त्का न्ताविगुरु णा स्वाधि का रात्प्र त्तः
शा पे ना स्तङ्गमिहि मार्ष भो ग्ये र्तुः
क्ष श्च क्रे या स्ना पु ण्यो केषु
स्नि ग्ध च्छा यारुषु तिं रा गि र्याश्र मेषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.