तस्मिन्नद्रौ कति चिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥
वल्लभदेवः ततोऽसौ यक्षः कतिचित्सप्ताष्टान्मासान्नीत्वातिवाह्य तस्मिन्नद्रौ चित्रकूटे मेघं ददर्शालोकितवान् । अबलाविप्रयुक्तः प्रियाविरहितः । अतश्च दौर्बल्यात्कनकलयभ्रंशेन सौवर्णकटकपातेन रिक्तप्रकोष्ठः शून्यभुजः । कामी व्यसनी । कीदृशम् । आश्लिष्टसानुमालिङ्गिताद्रिप्रस्थम् । अतश्च वप्रकीडार्थं तटाघातकेलिनिमित्तं परिणतो दत्तप्रहारो यो गजस्तत्प्रेक्षणीयं दृश्यम् । सानुलग्नेभमित्यर्थः । कदा । आषाढस्य प्रशमदिवसे समाप्तिदिने ग्रीष्मावमाने । केचित्तु शकारथ कारयोर्लिपिसारूप्यमोहात्प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रस्तुतत्वादादिदिनमित्येतत्त्वतीव विरुद्धम् ॥
पदच्छेदः
तस्मिन्नद्रौतद् (७.१)–अद्रि (७.१)
कतिचिदबलाविप्रयुक्तःकतिचिद् (अव्ययः)–अबला–विप्रयुक्त (√विप्र-युज् + क्त, १.१)
तद् (१.१)
कामीकामिन् (१.१)
नीत्वानीत्वा (√नी + क्त्वा)
मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठःमास (२.३)–कनक–वलय–भ्रंश–रिक्त (√रिच् + क्त)–प्रकोष्ठ (१.१)
आषाढस्यआषाढ (६.१)
प्रथमदिवसेप्रथम–दिवस (७.१)
मेघमाश्लिष्टसानुंमेघ (२.१)–आश्लिष्ट (√आ-श्लिष् + क्त)–सानु (२.१)
वप्रक्रीडापरिणतगजप्रेक्षणीयंवप्र–क्रीडा–परिणत (√परि-नम् + क्त)–गज–प्रेक्षणीय (√प्र-ईक्ष् + अनीयर्, २.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्मि न्न द्रौतिचि ला विप्र यु क्तः का मी
नी त्वा मा सान्क भ्रं रि क्तप्र को ष्ठः
षा स्यप्रदि से मे मा श्लिष्ट सा नुं
प्र क्री डारि प्रेक्ष णी यंर्श
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.