वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥

अन्वयः AI वागर्थौ इव संपृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वागर्थप्रतिपत्तये वन्दे ।
सञ्जीविनीटीका (मल्लिनाथः) वागर्थाविति॥ वागर्थाविव इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्, एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव, संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात् नित्यः शब्दार्थसंबन्धः इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ, पिता मात्रा (अष्टाध्यायी १.२.७० ) इति द्वन्द्वैकशेषः। मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। तस्यापत्यम् (अष्टाध्यायी ४.१.९२ ) इच्यण्, टिङ्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। परम शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च पार्वतीशब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥ इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-शुभदो मो भूमिमयः इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥
Summary AI I salute Pārvatī and Parameśvara, the parents of the universe, who are eternally united like a word and its meaning, for the purpose of attaining mastery over word and its meaning.
सारांश AI शब्द और अर्थ के समान नित्य जुड़े हुए, जगत के माता-पिता पार्वती और शिव को मैं शब्द और अर्थ के सम्यक ज्ञान हेतु प्रणाम करता हूँ।
पदच्छेदः AI
वागर्थौवाच्अर्थ (१.२) word and meaning
इवइव like
संपृक्तौसंपृक्त (सम्√पृच्+क्त, १.२) united
वागर्थप्रतिपत्तयेवाच्अर्थप्रतिपत्ति (प्रति√पद्+क्तिन्, ४.१) for the correct knowledge of word and meaning
जगतःजगत् (६.१) of the world
पितरौपितृ (१.२) parents
वन्देवन्दे (√वन्द् कर्तरि लट् (आत्मने.) उ.पु. एक.) I salute
पार्वतीपरमेश्वरौपार्वतीपरमईश्वर (२.२) Pārvatī and Parameśvara
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा र्था वि सं पृ क्तौ
वा र्थ प्र ति त्त ये
तः पि रौ न्दे
पा र्व ती मे श्व रौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.