क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥

अन्वयः AI सूर्यप्रभवः वंशः क्व च अल्पविषया मतिः क्व च? मोहात् दुस्तरं सागरं उडुपेन तितीर्षुः अस्मि ।
सञ्जीविनीटीका (मल्लिनाथः) क्व सूर्येति॥ प्रभवत्यस्मादिति प्रभवः कारणम्। ॠदोरप् (अष्टाध्यायी ३.३.५७ ) अकर्तरि च कारके संज्ञायाम् (अष्टाध्यायी ३.३.१९ ) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ क्वशब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। ईषद्दुःसुषु- (अष्टाध्यायी ३.३.१२६ ) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। उडुपं तु प्लवः कोलः इत्यमरः (अमरकोशः १.१०.११ ) । अथवा, -चर्मावनद्धेन पानपात्रेण। चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत् इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः इति ॥
Summary AI On one hand is the glorious dynasty originating from the Sun, and on the other is my limited intellect. Out of delusion, I desire to cross the insurmountable ocean using a mere raft.
सारांश AI कहाँ सूर्य से उत्पन्न महान वंश और कहाँ मेरी अल्प बुद्धि! मोहवश मैं छोटी नाव से दुस्तर सागर पार करने की इच्छा कर रहा हूँ।
पदच्छेदः AI
सूर्यप्रभवःसूर्यप्रभव (प्र√भू+अप्, १.१) born from the Sun
वंशःवंश (१.१) dynasty
क्वक्व where
and
अल्पविषयाअल्पविषय (१.१) of limited scope
मतिःमति (१.१) intellect
तितीर्षुःतितीर्षु (√तॄ+सन्+उ, १.१) desirous of crossing
दुस्तरम्दुस्तर (दुस्√तॄ+खल्, २.१) difficult to cross
मोहात्मोह (५.१) out of delusion
उडुपेनउडुप (३.१) by a small raft
अस्मिअस्मि (√अस् कर्तरि लट् (परस्मै.) उ.पु. एक.) I am
सागरम्सागर (२.१) ocean
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्व सू र्य प्र वो वं शः
क्व चा ल्प वि या तिः
ति ती र्षु र्दु स्त रं मो हा
दु डु पे ना स्मि सा रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.