Loading data... On slow networks this could take a few minutes.
100%

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥

अन्वयः AI प्रजानां विनयाधानात् रक्षणात् भरणात् अपि सः पिता तासाम् पितरः केवलं जन्महेतवः।
सञ्जीविनीटीका (मल्लिनाथः) प्रजानामिति॥ प्रजायन्त इति प्रजा जनाः। उपसर्गे च संज्ञायाम् (अष्टाध्यायी ३.२.९९ ) इति डप्रत्ययः। प्रजा स्यात्संततौ जने इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -स पिता यस्तु पोषकः इति ॥
Summary AI Because of his role in disciplining, protecting, and nourishing his subjects, he was their real father; their biological parents were merely the causes of their birth.
सारांश AI प्रजा को अनुशासन सिखाने, रक्षा करने और भरण-पोषण करने के कारण राजा ही उनके वास्तविक पिता थे, जन्म देने वाले पिता तो केवल जन्म के हेतु मात्र थे।
पदच्छेदः AI
प्रजानाम्प्रजा (६.३) of the subjects
विनयाधानात्विनयआधान (√धा+ल्युट्, ५.१) due to imparting discipline
रक्षणात्रक्षण (√रक्ष्+ल्युट्, ५.१) due to protection
भरणात्भरण (√भृ+ल्युट्, ५.१) due to maintenance
अपिअपि also
सःतद् (१.१) he
पितापितृ (१.१) father
तासाम्तद् (६.३) their
पितरःपितृ (१.३) parents
केवलम्केवल (२.१) only
जन्महेतवःजन्मन्हेतु (१.३) causes of birth
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र जा नां वि या धा ना
द्र क्ष णा द्भ णा पि
पि ता पि स्ता सां
के लं न्म हे वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.