अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥

अन्वयः AI विषयैः अनाकृष्टस्य विद्यानां पारदृश्वनः धर्मरतेः तस्य जरसा विना वृद्धत्वम् आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) अनाकृष्टस्येति॥ विषयैः शब्दादिभिः। रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी इत्यमरः (अमरकोशः १.५.८ ) । अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। विस्रसा जरा इत्यमरः (अमरकोशः २.६.४१ ) षिद्भिदादिभ्योऽङ् (अष्टाध्यायी ३.३.१०४ ) इत्यङ्प्रत्ययः। जराया जरसन्यतरस्याम् (अष्टाध्यायी ७.२.१०१ ) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा अनाकृष्टस्य इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥
Summary AI Not attracted by sensual objects, having seen the end of all branches of knowledge, and devoted to dharma, King Dilīpa attained the maturity of old age even without the physical signs of aging.
सारांश AI विषयों से अनासक्त, समस्त विद्याओं के ज्ञाता और धर्म में लीन उन राजा दिलीप में बुढ़ापे के शारीरिक लक्षणों के बिना ही ज्ञान का वृद्धत्व आ गया था।
पदच्छेदः AI
विषयैःविषय (३.३) by sensual objects
अनाकृष्टस्यआकृष्ट (√कृष्+क्त, ६.१) of one who is not attracted
विद्यानाम्विद्या (६.३) of the sciences
पारदृश्वनःपारदृश् (+क्वनिप्, ६.१) of one who has seen the other shore (mastered)
तस्यतद् (६.१) his
धर्मरतेःधर्मरति (√रम्+क्तिन्, ६.१) of one devoted to Dharma
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
वृद्धत्वम्वृद्धत्व (१.१) old age (wisdom)
जरसाजरा (३.१) by physical old age
विनाविना without
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना कृ ष्ट स्य वि यै
र्वि द्या नां पा दृ श्व नः
स्य र्म ते रा सी
द्वृ द्ध त्वं सा वि ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.