लक्ष्यते स्म तदनन्तरं रवि-
र्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो
भोगवेष्टित इव च्युतो मणिः ॥

अन्वयः AI तदनन्तरं बद्धभीमपरिवेषमण्डलः रविः वैनतेयशमितस्य भोगिनः च्युतः भोगवेष्टितः मणिः इव लक्ष्यते स्म ॥
सञ्जीविनीटीका (मल्लिनाथः) लक्ष्यत इति॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेषस्य परिधेर्मण्डलं यस्य सः। परिवेषस्तु परिधिरुपसूर्यकमण्डले इत्यमरः (अमरकोशः १.३.३६ ) । रविः। वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन। भोगः सुखे स्त्रअयादिभृतावहेश्च फणकाययोः इत्यमरः (अमरकोशः १.३.३६ ) । वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ॥
Summary AI Immediately after, the sun was seen with a terrible halo formed around it, appearing like a gem fallen from a serpent killed by Garuḍa, still encircled by the serpent's coils.
सारांश AI आकाश में सूर्य के चारों ओर एक भयानक मण्डल दिखाई दिया, जो गरुड़ द्वारा मारे गए सर्प की केंचुली के भीतर फंसे हुए किसी गिरे हुए मणि की तरह प्रतीत हो रहा था।
पदच्छेदः AI
तदनन्तरम्तद्अन्तर (२.१) immediately after
बद्धभीमपरिवेषमण्डलःबद्ध (√बन्ध्+क्त)भीमपरिवेष (√विष्+घञ्)मण्डल (१.१) having formed a terrible halo
रविःरवि (१.१) the sun
वैनतेयशमितस्यविनताशमित (√शम्+णिच्+क्त)तद् (६.१) of the serpent killed by Garuḍa
भोगिनःभोगिन् (६.१) of the serpent
च्युतःच्युतः (√च्यु+क्त, १.१) fallen
भोगवेष्टितःभोगवेष्टित (√वेष्ट्+क्त, १.१) encircled by the body
मणिःमणि (१.१) gem
इवइव like
लक्ष्यतेलक्ष्यते (√लक्ष् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) was seen
स्मस्म (past tense marker)
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
क्ष्य ते स्म न्त रं वि
र्ब द्ध भी रि वे ण्ड लः
वै ते मि स्य भो गि नो
भो वे ष्टि च्यु तो णिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.